|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.66. अध्यायः 066
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति लोकस्य सराजकत्वाराजकत्वाभ्यां गुणदोषनिरूपणम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-66-0x(5490)(67366)
चातुराश्रम्यमुक्तं ते चातुर्वण्यं तथैव च।
राष्ट्रस्य यत्कृत्यतमं तन्मे ब्रूहि पितामह॥ 12-66-1(67367)
भीष्म उवाच। 12-66-2x(5491)
राष्ट्रस्य यत्कृत्यतमं राज्ञ एवाभिषेचनम्।
अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्त्युत॥ 12-66-2(67368)
अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते।
परस्परं च खादन्ति सर्वथा धिगराजकम्॥ 12-66-3(67369)
इन्द्रमेव प्रणमते यद्राजानमिति श्रुतिः।
यथैवेन्द्रस्तथा राजा संपूज्यो भूतिमिच्छता॥ 12-66-4(67370)
नाराजकेषु राष्ट्रेषु वस्तव्यमिति वैदिकम्।
नाराजकेषु राष्ट्रेषु हव्यं वहति पावकः॥ 12-66-5(67371)
अथ चेदधिवेर्तेत राज्यार्थी बलवत्तरः।
अराजकाणि राष्ट्राणि हतवीराणि वा पुनः॥ 12-66-6(67372)
प्रत्युद्गम्याभिपूज्यः स्यादेतदत्र सुमन्त्रितम्।
न हि राज्यात्पापतरमस्ति किंचिदराजकात्॥ 12-66-7(67373)
स चेत्समनुपश्येत समग्रं कुशलं भवेत्।
बलवान्हि प्रकुपितः कुर्यान्निः शेषतामपि॥ 12-66-8(67374)
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा।
अथ या सुदुहा राजन्नैव तां वितुदन्त्यपि॥ 12-66-9(67375)
यदतप्तं प्रणमते न तत्संतापयन्त्युत।
यत्स्वयं नमते दारु न तत्संनामयन्त्यपि॥ 12-66-10(67376)
एतयोपमया धीरः सन्नमेत बलीयसे।
इन्द्राय स प्रणमते नमते यो बलीयसे॥ 12-66-11(67377)
तस्माद्राजैव कर्तव्यः सततं भूतिमिच्छता।
न धनार्थो न दारार्थस्तेषां येषामराजकम्॥ 12-66-12(67378)
प्रीयते हि हरन्पापः परवित्तमराजके।
यदाऽस्य तद्धरन्त्यन्ये तदा राजानमिच्छति॥ 12-66-13(67379)
पापा ह्यपि तदा क्षेमं न लभन्ते कदाचन।
एकस्य हि द्वौ हरतो द्वयोश्च बहवोऽपरे॥ 12-66-14(67380)
अदासः क्रियते दासो ह्रियन्ते च बलात्स्त्रियः।
एतस्मात्कारणाद्देवाः प्रजापालान्प्रचक्रिरे॥ 12-66-15(67381)
राजा चेन्न भवेल्लोके पृथिव्या दण्डधारकः।
जले मत्स्यानिवाभक्ष्यन्दुर्बलं बलवत्तराः॥ 12-66-16(67382)
अराजकाः प्रजाः पूर्वं विनेशुरिति नः श्रुतम्।
परस्परं भक्षयन्तो मत्स्या इव जले कृशान्॥ 12-66-17(67383)
समेत्य तास्ततश्चक्रुः समयानिति नः श्रुतम्।
वाक्शूरो दण्डपरुषो यश्च स्यात्पारदारिकः॥ 12-66-18(67384)
यश्च नः समयं भिन्द्यात्त्याज्या नस्तादृशा इति।
विश्वासार्थं च सर्वेषां वर्णानामविशेषतः।
तास्तथा समयं कृत्वा समयेनावतस्थिरे॥ 12-66-19(67385)
सहितास्तास्तदा जग्मुरसुखार्ताः पितामहम्।
अनीश्वरा विनश्यामो भगवन्नीश्वरं दिश॥ 12-66-20(67386)
यं पूजयेम संभूय यश्च नः प्रतिपालयेत्।
ताभ्यो मनुं व्यादिदेश मनुर्नाभिननन्द ताः॥ 12-66-21(67387)
मनुरुवाच। 12-66-22x(5492)
बिभेमि कर्मणः पापाद्राज्यं हि भृशदुष्करम्।
विशेषतो मनुष्येषु मिथ्यावृत्तेषु नित्यदा॥ 12-66-22(67388)
भीष्म उवाच। 12-66-23x(5493)
तमब्रुवन्प्रजा मा भैर्विधास्यामो धनं तव।
पशूनामथ पञ्चांशं धरण्यस्य तथैव च॥ 12-66-23(67389)
धान्यस्य दशमं भागं दास्यामः कोशवर्धनम्।
कन्यां शुल्के चारुरूपां विवाहेषूद्यतासु च॥ 12-66-24(67390)
मुख्येन शस्त्रपत्रेण ये मनुष्याः प्रधानतः।
भवन्तं तेऽनुयास्यन्ति महेन्द्रमिव देवताः॥ 12-66-25(67391)
स त्वं जातबलो राजन्दुष्प्रधर्षः प्रतापवान्।
सुखे धास्यसि नः सर्वान्कुबेर इव नैर्ऋतान्॥ 12-66-26(67392)
यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताः।
चतुर्थं तस्य धर्मस्य त्वत्संस्थं नो भविष्यति॥ 12-66-27(67393)
तेन धर्मेण महता सुखं लब्धेन भावितः।
पाह्यस्मान्सर्वतो राजन्देवानिव शतक्रतुः॥ 12-66-28(67394)
विजयाय हि निर्याहि प्रतपत्रश्मिवानिव।
मानं विधम शत्रूणां धर्मं जनय नः सदा॥ 12-66-29(67395)
स निर्ययौ महातेजा बलेन महता वृतः।
महाभिजनसंपन्नस्तेजसा प्रज्वलन्निव॥ 12-66-30(67396)
तस्य दृष्ट्वा महत्वं ते महेन्द्रस्येव देवताः।
अपतत्रसिरे सर्वे स्वधर्मे च ददुर्मनः।
`वर्णिनश्चाश्रमाश्चैव म्लेच्छाः सर्वे च दस्यवः॥' 12-66-31(67397)
ततो महीं परिययौ पर्जन्य इव वृष्टिमान्।
शमयन्सर्वतः पापान्स्वकर्मसु च योजयन्॥ 12-66-32(67398)
एवं ये भूतिमिच्छेयुः पृथिव्यां मानवाः क्वचित्।
कुर्यू राजानमेवाग्रे प्रजानुग्रहकारणात्॥ 12-66-33(67399)
नमस्येरंश्च तं भक्त्या शिष्या इव गुरुं सदा।
देवा इव च देवेन्द्रं नरा राजानमन्तिकात्॥ 12-66-34(67400)
सत्कृतं स्वजनेनेह परोऽपि बहुमन्यते।
स्वजनेन त्ववज्ञातं परे परिभवन्त्युत॥ 12-66-35(67401)
राज्ञः परैः परिभवः सर्वेषामसुखावहः।
तस्माच्छत्रं च पत्रं च वासांस्याभरणानि च॥ 12-66-36(67402)
भोजनान्यथ पानानि राज्ञे दद्युर्गृहाणि च।
आसनानि च शय्याश्च सर्वोपकरणानि च॥ 12-66-37(67403)
गोप्ता चास्य दुराधर्षः स्मितपूर्वाभिभाषिता।
आभाषितश्च मधुरं प्रत्याभाषेत मानवान्॥ 12-66-38(67404)
कृतज्ञो दृढभक्तिः स्यात्संविभागी जितेन्द्रियः।
ईक्षितः प्रतिवीक्षेत मृदु वल्गु च चर्जु च॥ ॥ 12-66-39(67405)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षट्षष्टिमोऽध्यायः॥ 66॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-66-4 इन्द्रमेव प्रवृणुते इति झ. पाठः॥ 12-66-12 धनादेरर्थ उपभोगः॥ 12-66-18 वाक्शूरो निष्टुरभाषी। दण्डपरुष उग्रदण्डः॥ 12-66-23 कर्तॄनेनो गमिष्यति इति झ. पाठः॥ 12-66-24 विवाहेसूद्यतासु कन्यासु शुल्के मौल्यप्रसंगे सति सुरूपां कन्यां तुभ्यं दास्याम इत्यर्थः॥ 12-66-25 शस्त्रपत्रेण शस्त्रेण वाहनेन च। प्रधानतः श्रेष्टाः। प्रथमार्थे तसिः॥ 12-66-29 मानं दर्पम्। विधम नाशय॥ 12-66-31 अपतत्रसिरे त्रासं प्राप्ताः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|